श्री आञ्जनेय सहस्रनामस्तोत्रम्
हनुमान जी के एक हजार पवित्र नामों का स्तोत्र
संक्षिप्त जानकारी
- स्तोत्र
- आञ्जनेय सहस्रनामस्तोत्रम् (1000 नाम)
- भाषा
- संस्कृत
- श्लोक संख्या
- 128
- समर्पित
- श्री हनुमान जी (सीता समेत श्री राम के परम भक्त)
आञ्जनेय सहस्रनामस्तोत्रम् हनुमान जी के हजार दिव्य नामों का एक पवित्र संस्कृत स्तोत्र है। प्रत्येक नाम हनुमान जी के किसी न किसी गुण, शक्ति या लीला को दर्शाता है — ज्ञान, बल, भक्ति, वीरता और करुणा के प्रतीक स्वरूप।
ध्यान श्लोक
उद्यदादित्य संकाशं उदार भुज विक्रमम् ।
कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥
श्री राम हृदयानंदं भक्त कल्प महीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥
अथ सहस्रनाम स्तोत्रम्
हनुमान् श्री प्रदो वायु पुत्रो रुद्रो अनघो अजरः । अमृत्युर् वीरवीरश्च ग्रामावासो जनाश्रयः ॥ १॥
धनदो निर्गुणः शूरो वीरो निधिपतिर् मुनिः । पिन्गाक्षो वरदो वाग्मी सीता शोक विनाशकः ॥ २॥
शिवः शर्वः परो अव्यक्तो व्यक्ताव्यक्तो धराधरः । पिन्गकेशः पिन्गरोमा श्रुतिगम्यः सनातनः ॥ ३॥
अनादिर्भगवान् देवो विश्व हेतुर् निराश्रयः । आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ ४॥
भर्गो रामो राम भक्तः कल्याणः प्रकृति स्थिरः । विश्वम्भरो विश्वमूर्तिः विश्वाकारश्च विश्वपाः ॥ ५॥
विश्वात्मा विश्वसेव्यो अथ विश्वो विश्वहरो रविः । विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥ ६॥
प्लवंगमः कपिश्रेष्टो वेदवेद्यो वनेचरः । बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सुखो ह्यजः ॥ ७॥
अन्जनासूनुरव्यग्रो ग्राम ख्यातो धराधरः । भूर्भुवस्स्वर्महर्लोको जनो लोकस्तपो अव्ययः ॥ ८॥
सत्यं ओम्कार गम्यश्च प्रणवो व्यापको अमलः । शिवो धर्म प्रतिष्ठाता रामेष्टः फल्गुणप्रियः ॥ ९॥
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः । रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १०॥
जानकी प्राण दाता च रक्षः प्राणापहारकः । पूर्णसत्त्वः पीतवासा दिवाकर समप्रभः ॥ ११॥
द्रोणहर्ता शक्तिनेता शक्ति राक्षस मारकः । अक्षघ्नो रामदूतश्च शाकिनी जीव हारकः ॥ १२॥
भुभुकार हतारातिर्दुष्ट गर्व प्रमर्दनः । हेतुः सहेतुः प्रंशुश्च विश्वभर्ता जगद्गुरुः ॥ १३॥
जगत्त्राता जगन्नथो जगदीशो जनेश्वरः । जगत्पिता हरिः श्रीशो गरुडस्मयभंजनः ॥ १४॥
पार्थध्वजो वायुसुतो अमित पुच्छो अमित प्रभः । ब्रह्म पुच्छं परब्रह्मापुच्छो रामेष्ट एव च ॥ १५॥
सुग्रीवादि युतो ज्ञानी वानरो वानरेश्वरः । कल्पस्थायी चिरंजीवी प्रसन्नश्च सदा शिवः ॥ १६॥
सन्नतिः सद्गतिः भुक्ति मुक्तिदः कीर्ति दायकः । कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ १७॥
उदधिक्रमणो देवः संसार भय नाशनः । वार्धि बंधनकृद् विश्व जेता विश्व प्रतिष्ठितः ॥ १८॥
लंकारिः कालपुरुषो लंकेश गृह भंजनः । भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥ १९॥
श्रीरामदूतः कृष्णश्च लंकाप्रासादभंजकः । कृष्णः कृष्ण स्तुतः शान्तः शान्तिदो विश्वपावनः ॥ २०॥
विश्व भोक्ता च मारघ्नो ब्रह्मचारी जितेन्द्रियः । ऊर्ध्वगो लान्गुली मालि लान्गूल हत राक्षसः ॥ २१॥
समीर तनुजो वीरो वीरमारो जयप्रदः । जगन्मन्गलदः पुण्यः पुण्य श्रवण कीर्तनः ॥ २२॥
पुण्यकीर्तिः पुण्य गतिर्जगत्पावन पावनः । देवेशो जितमारश्च राम भक्ति विधायकः ॥ २३॥
ध्याता ध्येयो भगः साक्षी चेत चैतन्य विग्रहः । ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ २४॥
विभीषण प्रियः शूरः पिप्पलायन सिद्धिदः । सुहृत् सिद्धाश्रयः कालः काल भक्षक भंजनः ॥ २५॥
लंकेश निधनः स्थायी लंका दाहक ईश्वरः । चन्द्र सूर्य अग्नि नेत्रश्च कालाग्निः प्रलयान्तकः ॥ २६॥
कपिलः कपीशः पुण्यराशिः द्वादश राशिगः । सर्वाश्रयो अप्रमेयत्मा रेवत्यादि निवारकः ॥ २७॥
लक्ष्मण प्राणदाता च सीता जीवन हेतुकः । रामध्येयो हृषीकेशो विष्णु भक्तो जटी बली ॥ २८॥
देवारिदर्पहा होता कर्ता हर्ता जगत्प्रभुः । नगर ग्राम पालश्च शुद्धो बुद्धो निरन्तरः ॥ २९॥
निरंजनो निर्विकल्पो गुणातीतो भयंकरः । हनुमांश्च दुराराध्यः तपस्साध्यो महेश्वरः ॥ ३०॥
जानकी घनशोकोत्थतापहर्ता परात्परः । वाडंभ्यः सदसद्रूपः कारणं प्रकृतेः परः ॥ ३१॥
भाग्यदो निर्मलो नेता पुच्छ लंका विदाहकः । पुच्छबद्धो यातुधानो यातुधान रिपुप्रियः ॥ ३२॥
चायापहारी भूतेशो लोकेश सद्गति प्रदः । प्लवंगमेश्वरः क्रोधः क्रोध संरक्तलोचनः ॥ ३३॥
क्रोध हर्ता ताप हर्ता भाक्ताभय वरप्रदः। भक्तानुकंपी विश्वेशः पुरुहूतः पुरंदरः ॥ ३४॥
अग्निर्विभावसुर्भास्वान् यमो निष्कृतिरेवच । वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः ॥ ३५॥
रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्वरः । राहुः केतुर्मरुद्धाता धर्ता हर्ता समीरजः ॥ ३६॥
मशकीकृत देवारि दैत्यारिः मधुसूदनः । कामः कपिः कामपालः कपिलो विश्व जीवनः ॥ ३७॥
भागीरथी पदांभोजः सेतुबंध विशारदः । स्वाहा स्वधा हविः कव्यं हव्यवाह प्रकाशकः ॥ ३८॥
स्वप्रकाशो महावीरो लघुश्च अमित विक्रमः । प्रडीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ ३९॥
जगदात्मा जगध्योनिर्जगदंतो ह्यनंतकः । विपाप्मा निष्कलंकश्च महान् मदहंकृतिः ॥ ४०॥
खं वायुः पृथ्वी ह्यापो वह्निर्दिक्पाल एव च । क्षेत्रज्ञः क्षेत्र पालश्च पल्वलीकृत सागरः ॥ ४१॥
हिरण्मयः पुराणश्च खेचरो भुचरो मनुः । हिरण्यगर्भः सूत्रात्मा राजराजो विशांपतिः ॥ ४२॥
वेदांत वेद्यो उद्गीथो वेदवेदंग पारगः । प्रति ग्रामस्थितः साध्यः स्फूर्ति दात गुणाकरः ॥ ४३॥
नक्षत्र माली भूतात्मा सुरभिः कल्प पादपः । चिन्ता मणिर्गुणनिधिः प्रजा पतिरनुत्तमः ॥ ४४॥
पुण्यश्लोकः पुरारातिर्ज्योतिष्मान् शर्वरीपतिः । किलिकिल्यारवत्रस्तप्रेतभूतपिशाचकः ॥ ४५॥
रुणत्रय हरः सूक्ष्मः स्तूलः सर्वगतिः पुमान् । अपस्मार हरः स्मर्ता शृतिर्गाथा स्मृतिर्मनुः ॥ ४६॥
स्वर्ग द्वारं प्रजा द्वारं मोक्ष द्वारं कपीश्वरः । नाद रूपः पर ब्रह्म ब्रह्म ब्रह्म पुरातनः ॥ ४७॥
एको नैको जनः शुक्लः स्वयं ज्योतिर्नाकुलः । ज्योतिः ज्योतिरनादिश्च सात्त्विको राजसत्तमः ॥ ४८॥
तमो हर्ता निरालंबो निराकारो गुणाकरः । गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशः ॥ ४९॥
बृहद्धनुर् बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत् कर्णो बृहन्नासो बृहन्नेत्रो बृहत्गलः ॥ ५०॥
बृहध्यन्त्रो बृहत्चेष्टो बृहत् पुच्छो बृहत् करः । बृहत्गतिर्बृहत्सेव्यो बृहल्लोक फलप्रदः ॥५१॥
बृहच्छक्तिर्बृहद्वांछा फलदो बृहदीश्वरः । बृहल्लोक नुतो द्रष्टा विद्या दात जगद् गुरुः ॥ ५२॥
देवाचार्यः सत्य वादी ब्रह्म वादी कलाधरः । सप्त पातालगामी च मलयाचल संश्रयः ॥ ५३॥
उत्तराशास्थितः श्रीदो दिव्य औषधि वशः खगः । शाखामृगः कपीन्द्रश्च पुराणः श्रुति संचरः ॥ ५४॥
चतुरो ब्राह्मणो योगी योगगम्यः परात्परः । अनदि निधनो व्यासो वैकुण्ठः पृथ्वी पतिः ॥ ५५॥
पराजितो जितारातिः सदानन्दश्च ईशिता । गोपालो गोपतिर्गोप्ता कलिः कालः परात्परः ॥ ५६॥
मनोवेगी सदा योगी संसार भय नाशनः । तत्त्व दाता च तत्त्वज्ञस्तत्त्वं तत्त्व प्रकाशकः ॥ ५७॥
शुद्धो बुद्धो नित्यमुक्तो भक्त राजो जयप्रदः । प्रलयो अमित मायश्च मायातीतो विमत्सरः ॥ ५८॥
माया-निर्जित-रक्षाश्च माया-निर्मित-विष्टपः । मायाश्रयश्च निर्लेपो माया निर्वंचकः सुखः ॥ ५९॥
सुखी सुखप्रदो नागो महेशकृत संस्तवः । महेश्वरः सत्यसंधः शरभः कलि पावनः ॥ ६०॥
रसो रसज्ञः सम्मनस्तपस्चक्षुश्च भैरवः । घ्राणो गन्धः स्पर्शनं च स्पर्शो अहंकारमानदः ॥ ६१॥
नेति-नेति-गम्यश्च वैकुण्ठ भजन प्रियः । गिरीशो गिरिजा कान्तो दूर्वासाः कविरंगिराः ॥ ६२॥
भृगुर्वसिष्टश्च यवनस्तुम्बुरुर्नारदो अमलः । विश्व क्षेत्रं विश्व बीजं विश्व नेत्रश्च विश्वगः ॥ ६३॥
याजको यजमानश्च पावकः पितरस्तथा । श्रद्ध बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयुतः स्वरः ॥ ६४॥
राजेन्द्रो भूपती रुण्ड माली संसार सारथिः । नित्यः संपूर्ण कामश्च भक्त कामधुगुत्तमः ॥ ६५॥
गणपः कीशपो भ्राता पिता माता च मारुतिः । सहस्र शीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ६६॥
कामजित् काम दहनः कामः काम्य फल प्रदः । मुद्राहारी राक्षसघ्नः क्षिति भार हरो बलः ॥ ६७॥
नख दंष्ट्र युधो विष्णु भक्तो अभय वर प्रदः । दर्पहा दर्पदो दृप्तः शत मूर्तिरमूर्तिमान् ॥ ६८॥
महा निधिर्महा भोगो महा भागो महार्थदः । महाकारो महा योगी महा तेजा महा द्युतिः ॥ ६९॥
महा कर्मा महा नादो महा मन्त्रो महा मतिः । महाशयो महोदारो महादेवात्मको विभुः ॥ ७०॥
रुद्र कर्मा कृत कर्मा रत्न नाभः कृतागमः । अम्भोधि लंघनः सिंहो नित्यो धर्मः प्रमोदनः ॥ ७१॥
जितामित्रो जयः सम विजयो वायु वाहनः । जीव दात सहस्रांशुर्मुकुन्दो भूरि दक्षिणः ॥ ७२॥
सिद्धर्थः सिद्धिदः सिद्ध संकल्पः सिद्धि हेतुकः । सप्त पातालचरणः सप्तर्षि गण वन्दितः ॥ ७३॥
सप्ताब्धि लंघनो वीरः सप्त द्वीपोरुमण्डलः । सप्तांग राज्य सुखदः सप्त मातृ निशेवितः ॥ ७४॥
सप्त लोकैक मुकुटः सप्त होता स्वराश्रयः । सप्तच्छन्दो निधिः सप्तच्छन्दः सप्त जनाश्रयः ॥ ७५॥
सप्त सामोपगीतश्च सप्त पातल संश्रयः । मेधावी कीर्तिदः शोक हारी दौर्भग्य नाशनः ॥ ७६॥
सर्व वश्यकरो गर्भ दोषघ्नः पुत्रपौत्रदः । प्रतिवादि मुखस्तंभी तुष्टचित्तः प्रसादनः ॥ ७७॥
पराभिचारशमनो दुःखघ्नो बंध मोक्षदः । नव द्वार पुराधारो नव द्वार निकेतनः ॥ ७८॥
नर नारायण स्तुत्यो नरनाथो महेश्वरः । मेखली कवची खद्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ ७९॥
बहु योजन विस्तीर्ण पुच्छः पुच्छ हतासुरः । दुष्टग्रह निहंता च पिशाच ग्रह घातकः ॥ ८०॥
बाल ग्रह विनाशी च धर्मो नेता कृपकरः । उग्रकृत्यश्चोग्रवेग उग्र नेत्रः शत क्रतुः ॥ ८१॥
शत मन्युस्तुतः स्तुत्यः स्तुतिः स्तोता महा बलः । समग्र गुणशाली च व्यग्रो रक्षो विनाशकः ॥ ८२॥
रक्षोघ्न हस्तो ब्रह्मेशः श्रीधरो भक्त वत्सलः । मेघ नादो मेघ रूपो मेघ वृष्टि निवारकः ॥ ८३॥
मेघ जीवन हेतुश्च मेघ श्यामः परात्मकः । समीर तनयो बोध्ह तत्त्व विद्या विशारदः ॥ ८४॥
अमोघो अमोघहृष्टिश्च इष्टदो अनिष्ट नाशनः । अर्थो अनर्थापहारी च समर्थो राम सेवकः ॥ ८५॥
अर्थी धन्यो असुरारातिः पुण्डरीकाक्ष आत्मभूः । संकर्षणो विशुद्धात्मा विद्या राशिः सुरेश्वरः ॥ ८६॥
अचलोद्धरको नित्यः सेतुकृद् राम सारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निधिःशमः ॥ ८७॥
वाराहो नारसिंहश्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरः ॥ ८८॥
नन्दी भृन्गी च चण्डी च गणेशो गण सेवितः । कर्माध्यक्ष्यः सुराध्यक्षो विश्रामो जगतांपतिः ॥ ८९॥
जगन्नथः कपि श्रेष्टः सर्वावसः सदाश्रयः । सुग्रीवादिस्तुतः शान्तः सर्व कर्मा प्लवंगमः ॥ ९०॥
नखदारितरक्षाश्च नख युद्ध विशारदः । कुशलः सुघनः शेषो वासुकिस्तक्षकः स्वरः ॥ ९१॥
स्वर्ण वर्णो बलाढ्यश्च राम पूज्यो अघनाशनः । कैवल्य दीपः कैवल्यं गरुडः पन्नगो गुरुः ॥ ९२॥
किल्यारावहतारातिगर्वः पर्वत भेदनः । वज्रांगो वज्र वेगश्च भक्तो वज्र निवारकः ॥ ९३॥
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढ प्रतापस्तपनो भक्त ताप निवारकः ॥ ९४॥
शरणं जीवनं भोक्ता नानाचेष्टोह्यचंचलः । सुस्वस्थो अस्वास्थ्यहा दुःखशमनः पवनात्मजः ॥ ९५॥
पावनः पवनः कान्तो भक्तागस्सहनो बलः । मेघ नादरिपुर्मेघनाद संहृतराक्षसः ॥ ९६॥
क्षरो अक्षरो विनीतात्मा वानरेशः सतांगतिः । श्री कण्टः शिति कण्टश्च सहायः सहनायकः ॥ ९७॥
अस्तूलस्त्वनणुर्भर्गो देवः संसृतिनाशनः । अध्यात्म विद्यासारश्च अध्यात्मकुशलः सुधीः ॥ ९८॥
अकल्मषः सत्य हेतुः सत्यगः सत्य गोचरः । सत्य गर्भः सत्य रूपः सत्यं सत्य पराक्रमः ॥ ९९॥
अन्जना प्राणलिंगच वायु वंशोद्भवः शुभः । भद्र रूपो रुद्र रूपः सुरूपस्चित्र रूपधृत् ॥ १००॥
मैनाक वंदितः सूक्ष्म दर्शनो विजयो जयः । क्रान्त दिग्मण्डलो रुद्रः प्रकटीकृत विक्रमः ॥ १०१॥
कम्बु कण्टः प्रसन्नात्मा ह्रस्व नासो वृकोदरः । लंबोष्टः कुण्डली चित्रमाली योगविदां वरः ॥ १०२॥
विपश्चित् कविरानन्द विग्रहो अनन्य शासनः । फल्गुणीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ १०३॥
योग वेद्यो योग कर्ता योग योनिर्दिगंबरः । अकारादि क्षकारान्त वर्ण निर्मित विग्रहः ॥ १०४॥
उलूखल मुखः सिंहः संस्तुतः परमेश्वरः । श्लिष्ट जंघः श्लिष्ट जानुः श्लिष्ट पाणिः शिखा धरः ॥ १०५॥
सुशर्मा अमित शर्मा च नारयण परायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ १०६॥
हरी रुद्रानुकृद् वृक्ष कंपनो भूमि कंपनः । गुण प्रवाहः सूत्रात्मा वीत रागः स्तुति प्रियः ॥ १०७॥
नाग कन्या भय ध्वंसी रुक्म वर्णः कपाल भृत् । अनाकुलो भवोपायो अनपायो वेद पारगः ॥ १०८॥
अक्षरः पुरुषो लोक नाथो रक्ष प्रभु दृडः । अष्टांग योग फलभुक् सत्य संधः पुरुष्टुतः ॥ १०९॥
स्मशान स्थन निलयः प्रेत विद्रावण क्षमः । पंचाक्षर परः पंच मातृको रंजनध्वजः ॥ ११०॥
योगिनी वृन्द वंद्यश्च शत्रुघ्नो अनन्त विक्रमः । ब्रह्मचारी इन्द्रिय रिपुः धृतदण्डो दशात्मकः ॥ १११॥
अप्रपंचः सदाचारः शूर सेना विदारकः । वृद्धः प्रमोद आनंदः सप्त जिह्व पतिर्धरः ॥ ११२॥
नव द्वार पुराधारः प्रत्यग्रः सामगायकः । षट्चक्रधामा स्वर्लोको भयह्यन्मानदो अमदः ॥ ११३॥
सर्व वश्यकरः शक्तिरनन्तो अनन्त मंगलः । अष्ट मूर्तिर्धरो नेता विरूपः स्वर सुन्दरः ॥ ११४॥
धूम केतुर्महा केतुः सत्य केतुर्महारथः । नन्दि प्रियः स्वतन्त्रश्च मेखली समर प्रियः ॥ ११५॥
लोहांगः सर्वविद् धन्वी षट्कलः शर्व ईश्वरः । फल भुक् फल हस्तश्च सर्व कर्म फलप्रदः ॥ ११६॥
धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदो अर्थदः । पंच विंशति तत्त्वज्ञः तारक ब्रह्म तत्परः ॥ ११७॥
त्रि मार्गवसतिर्भूमिः सर्व दुःख निबर्हणः । ऊर्जस्वान् निष्कलः शूली माली गर्जन्निशाचरः ॥ ११८॥
रक्तांबर धरो रक्तो रक्त माला विभूषणः । वन माली शुभांगश्च श्वेतः स्वेतांबरो युवा ॥ ११९॥
जयो जय परीवारः सहस्र वदनः कविः । शाकिनी डाकिनी यक्ष रक्षो भूतौघ भंजनः ॥ १२०॥
सध्योजातः कामगतिर् ज्ञान मूर्तिः यशस्करः । शंभु तेजाः सार्वभौमो विष्णु भक्तः प्लवंगमः ॥ १२१॥
चतुर्नवति मन्त्रज्ञः पौलस्त्य बल दर्पहा । सर्व लक्ष्मी प्रदः श्रीमान् अन्गदप्रिय ईडितः ॥ १२२॥
स्मृतिर्बीजं सुरेशानः संसार भय नाशनः । उत्तमः श्रीपरीवारः श्री भू दुर्गा च कामाख्यक ॥ १२३॥
सदागतिर्मातरिश्च राम पादाब्ज षट्पदः । नील प्रियो नील वर्णो नील वर्ण प्रियः सुहृत् ॥ १२४॥
राम दूतो लोक बन्धुः अन्तरात्मा मनोरमः । श्री राम ध्यानकृद् वीरः सदा किंपुरुषस्स्तुतः ॥ १२५॥
राम कार्यांतरंगश्च शुद्धिर्गतिरानमयः । पुण्य श्लोकः परानन्दः परेशः प्रिय सारथिः ॥ १२६॥
लोक स्वामि मुक्ति दाता सर्व कारण कारणः । महा बलो महा वीरः पारावारगतिर्गुरुः ॥ १२७॥
समस्त लोक साक्षी च समस्त सुर वंदितः । सीता समेत श्री राम पाद सेवा दुरंधरः ॥ १२८॥
इति श्री सीता समेत श्री राम पाद सेवा दुरंधर श्री हनुमत् सहस्र नाम स्तोत्रं संपूर्णम् ॥